भ्वादिगण:
भ्वादिगण: - दशक्रियागणा: सन्ति । तेषु भ्वादिगण: प्रथम: गण: अस्ति । अस्य नाम भ्वादिगण इति अभवत् भू धातो: गणस्य प्रथमधातुत्वात् । दशगणेषु धातूनाम् आहत्य संख्या 1970मिति अस्ति । यासु 1035 तु केवलं भ्वादिगणे सन्ति । भ्वादिगणीय धातुषु धातु-प्रत्ययो: मध्ये शप् (अ) विकरणं लगति (कर्तरि शप्)। मूलप्रत्ययै: (ति त: अन्ति) सह् शप् (अ) इति मिलित्वा 'अति, अत:, अन्ति' इति भवन्ति । धातो: अन्तिमं स्वरं 'इ ई, उ उू, ऋ ऋृ, तथा च उपधाया: (अन्तिमवर्णस्य पूर्वतनम्) इकार, उकार, ऋकारस्य च गुणादेश: (ए, ओ, अर्) भवति । अन्तिमस्य गुणस्य एकारस्य 'अय्' इति ओकारस्य च 'अव्' इति भवति । यथा - भू + अ + ति = भवति, नि + अ + ति = नयति हृ + अ + ति = हरति आदि लट्, लोट्, लड्., विधिलिड्. चादे: संक्षिप्तरूपाणि अधोविधि चलन्ति । परस्मैपदम् लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: अति अत: अन्ति मध्यमपुरुष: अ...