Posts

Showing posts from December, 2020

धातुरूपप्रकरणम्

  मित्राणि अद्य आरभ्‍य संस्‍कृ‍तजगति धातुरूपप्रकरणं प्रकाशयिष्‍यते । भवन्‍त: येषां धातूनां धातुरूपं परिचयं वा प्राप्‍तुमिच्‍छन्ति कृपया अत्र टिप्‍पणीमंजूषायाम् अथवा अस्‍मान् ईमेल माध्‍यमेन लेखितुं शक्‍नुवन्ति । वयं भवतां समस्‍यासमाधानं कर्तुं कृतसंकल्‍पा: स्‍म: । पुनश्‍च ये बान्‍धवा: धातुरूपाणां विशिष्टज्ञानम् अवधारयन्ति एवं च जनेभ्‍य: स्‍वज्ञानलाभं प्रददातुमिच्‍छन्ति ते अपि कृपया स्‍वलेखान् लिखित्‍वा अस्‍मान् प्रेषितुं शक्‍नुवन्ति । अस्‍माकं ईसंकेत: gyandarpanstudy@gmail.com अस्ति । अत्र प्रेषिता: भवन्‍त: लेखा:  प्रकाशयिष्‍यन्‍ते ।  भवतां हार्द: धन्‍यवाद:

धातु: किम् इति ?

  धा तुरूपं किमस्ति इति ज्ञातुं पूर्वम् का धातु: इति एतत् ज्ञायेत् । धातुविषये महर्षिपाणिनि: अष्‍टाध्‍यायीग्रन्‍थे वदति -  भूवादयोधातव:  ।  भू, एध आदीनां (क्रियावाचीवर्णसमुदायानां) धातुसंज्ञा भवति ।  धातुभि: सह तिड. आदिप्रत्‍यया: युञ्ज्यन्‍ते ।  एते तिड. प्रत्यया: अधोक्‍ता: सन्ति । परस्‍मैपदिधातूनां कृते -  एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: तिप्, तस्, झि, मध्‍यमपुरुष: सिप् थस् थ उत्‍तमपुरुष: मिप् वस् मस् आत्‍मनेपदिधातूनां कृते -  एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: त, अताम्, झ मध्‍यमपुरुष: थास्, आथाम्, ध्‍वम् उत्‍तमपुरुष: इट्, वहि, महिड्. एतै: सहयोगै: सर्वेषु कालेषु (लकारेषु) सर्वेषु पुरुषेसु, सर्वेषु वचनेषु च धातुरूपाणि निर्माप्‍यते ।

धातूनां प्रकार: ।

  धातु: त्रेधा भवति ।  1- सकर्मकधातु: 2- अकर्मकधातु: 3- द्विकर्मकधातु: च 1- सकर्मकधातु: -  येषां क्रियाणां फलं व्‍यापाराश्‍च भिन्‍न-भिन्‍नाश्रयेषु भवति ते धातव: सकर्मक इति कथ्‍यन्‍ते । ( फलव्‍यधिकरणव्‍यापारवाचकत्‍वं सकर्मकत्‍वम् ) ।  साकांक्षितक्रिया सकर्मक भवति । यथा पठति, खादति, पिबति इत्‍यादि । 2- अकर्मकधातु: -  यस्‍य फलं व्‍यापाराश्‍च एकस्मिनाश्रये एव तिष्‍ठति तदकर्मकमिति उच्‍यते ।  ( फलसमानाधिकरणव्‍यापारवाचकत्‍वम् अकर्मकत्‍वम् ) । सकर्मकधातु: यदि स्‍व अर्थं परित्‍यज्‍य अपरस्‍य अर्थस्‍य अवबोधं कारयेत् चेत् सोपि अकर्मक भवति । यथा - नदी व‍हति । यदि कर्मस्‍य धात्‍वर्थे एव बोध: भवति चेत् तत्रापि क्रिया अकर्मक एव भवति ।  यथा - गोपाल: नृत्‍यति । यत्र कर्म प्रसिद्धं भवति तत्रापि क्रिया अकर्मक भवति । यथा - मेघ: वर्षति । कर्मण: अविवक्षायामपि सकर्मकक्रिया अकर्मक भवति ।  हितात् न य: संश्रृणुते स किं प्रभु: धातोरर्थान्‍तरे वृत्ते: धात्‍वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षात: कर्मणो कर्मका क्रिया ।। अधोलिखितार्थक्रिया: अकर्मक भवन्ति । लज्‍जासत्‍तास्थितिजागरणं वृद्धिक्षयभयजीवनमरणम् शयनक्रीडारुचि

धातुरूपम्

  धातुविषये विज्ञाय सम्‍प्रति अस्‍माकं जिज्ञासा भवति यत् धातुरूपं कथं प्रचलति, कतिविधं च भवति । पूर्वे लेखे वयं धातो: कर्मप्रवृत्तिं ज्ञातवन्‍त: । काचन् धातु: सकर्मकम् अकर्मकम् अथवा उभयविधं भवितुमर्हति । सम्‍प्रति धातो: अपरा प्रवृत्ति: इत्‍युक्‍ते सा धातु: कीदृशं रूपं दधाति इति जानिम: ।    धातुप्रयोग: त्रेधा भवति पुन: । परस्‍मैपदी  -  यदा क्रियाया: फलं साक्षात् कर्तारं प्रति न गच्‍छेत् तत्र परस्‍मैपदी धातु: भवति। आत्‍मनेपदी -  यदा क्रियाया: फलं साक्षात् कर्ता प्राप्‍येत् तत्र आत्‍मनेपदी धातु: भवति । उभयपदी -  यदा क्रियाया: फलं कर्तारमपि अन्‍यै: सहैव मिलेत् तत्र उभयपदी धातुप्रयोग: भवति । एतेषां धातुरूपाणां विषये अधिकं अग्रे पठिष्‍याम: ।

लकारपरिचय:

  धातुरूपाणि दशलकारेषु विभाजितानि सन्ति, अथवा धातो: सर्वेषु वचनेषु, सर्वेषु पुरुषेसु सर्वेषु कालेषु विभाजनम् आहत्‍य दशलकारेषु एव कृतमस्ति ।  एते लकारा: लादिवर्णात् प्रारभ्‍यन्‍ते अत: लकारा: इति उच्‍यन्‍ते ।  दशलकारा: सन्ति अधोक्‍ता: । लट् लकार -  वर्तमानकाले । लिट् लकार -  अनद्यतन-परोक्षभूतकाले । लुट् लकार -  अनद्यतनभविष्‍यतकाले । लृट् लकार -  अद्यतनभविष्‍यतकाले । लेट् लकार -  वेदप्रयोगे । लोट् लकार -  आज्ञाप्रयोगे । लड्. लकार -  अनद्यतनभूतकाले । लिड्. लकार -  विधिनिषेधादिप्रयोग, शुभकामनाशीर्वादवचने । लुड्. लकार -  अद्यतनभूतकाले । लृड्. लकार -  हेतुहेतुमद्भावप्रयोगे ।  लट् वर्तमाने लेट् वेदे भूते लुड्. लड्. लिटस्‍तथा । विध्‍याशिषोर्लिड्. लोटौ च लुट् लृट् लृड्. च भविष्‍यति ।। इति

सेटानिटधातव: ।

  सेट् -  यासु क्रियासु 'इट्' प्रयुज्‍ज्‍यते ता: क्रिया: 'सेट्' इति उच्‍यन्‍ते ।  यथा - पठिष्‍यति । अनिट् -  यासु क्रियासु 'इट्' नैव प्रयुज्‍ज्‍यते ता: क्रिया: 'अनिट्' इति उच्‍यन्‍ते ।  एतासु धातुषु ऊदन्त, ऋदन्‍त, यु, रु, क्ष्‍णु, शीड्., स्‍नु, नु, क्षु, श्वि, डीड्., श्री, वृड्., वृञ् धातून् परित्‍यज्‍य सर्वा: अजन्‍तधातव: परिगण्‍यन्‍ते ।

धातुगणा:

  संस्‍कृतभाषा: धात्‍वाधारिता भाषा ।  अस्‍यां भाषायां धातुं विना पदमपि गन्‍तुं शक्‍यं नास्ति ।  अत्र कदाचित् द्विसहस्राधिकमपि धातुसंख्‍या । धातुमधिकृत्‍यैव धातुरूपम् इत्‍युक्‍ते क्रियारूपं चलति ।  तेन माध्‍यमेनैव वाक्‍यप्रयोग: भवति ।    प्रायशो सर्वा: धातव: आहत्‍य दश गणेषु विभक्‍ता: सन्ति ।  एतेषां दशगणानां नामानि तस्‍यान्‍तर्गतस्‍य प्रथमधातो: नामोपरि आधारितमस्ति ।  एते गणा: अधोक्‍ता: सन्ति ।   भ्‍वाद्यदादी जुहोत्‍यादिदिवादि: स्‍वादिरेव च । तुदादिश्‍च रुधादिश्‍च तनक्र्यादिचुरादय: ।।  भ्‍वादिगण  अदादिगण  जुहोत्‍यादिगण दिवादिगण  स्‍वादिगण तुदादिगण रुधादिगण तनादिगण क्र्यादिगण चुरादिगण एतेषाम् अन्‍तर्गते आगतानां धातवा:, तेषां धातुरूपं च अग्रे शनै: शनै: प्रकाशयिष्‍याम: । इति

लट् लकारस्य प्रयोग: ।

  निरन्‍तरजायमाना क्रिया लट् लकारेण विधीयते । यथा - वह खेलता है, खेल रहा है, पढता है, पढ रहा है आदिवाक्‍यानाम् अनुवाद: ''क्रीडति, पठति'' इति क्रियते ।  इत्‍युक्‍ते वर्तमाने जायमानस्‍या: क्रियाया: प्रयोग: सर्वदा लट् लकारे क्रियते ।  लट् लकारस्‍य अन्‍यत्रापि प्रयोग: प्राप्‍यते ।  स: प्रयोग: अग्रलिखित: अस्ति । प्रारब्‍धोSपरिसमाप्‍तश्‍च काल: वर्तमानकाल:    वस्‍तो: स्‍वभाव: उत सार्वकालिकसत्‍यस्य कृते लट् लकारस्‍य प्रयोग: क्रियते ।  यथा -    चिरं पर्वतास्तिष्‍ठन्ति, नद्यश्‍च प्रवहन्ति ।      सत्‍यवादिन: प्रतिज्ञां वितथां न हि कुर्वन्ति । वर्तमानसामीप्‍ये वर्तमानवद्वा     वर्तमानकालस्‍य समीपे स्थित भविष्‍यस्‍य भूतस्‍य वा बोधार्थम् लट् लकार: प्रयुज्‍ज्‍यते ।  अर्थात् या क्रिया शीघ्रमेव समाप्‍ता भविष्‍यति उता सम्‍प्रति एव समाप्‍तं जातं तस्‍य कृते लटलकारस्‍य प्रयोग: क्रियते । यथा -    कदा गोपाल: गमिष्‍यसि ? एष गच्‍छामि ।  (गोपाल कब जाओगे ? अभी जाता हूँ ।)    कदा गोपाल आगन्‍तो असि ?  अयमागच्‍छामि ।  (गोपाल कब आये ? अभी आ रहा हूँ ।)    कस्‍यचित् प्रश्‍नस्‍य उत्‍तरं दातुं भूतकालस्‍य

लट् लकारस्‍य प्रयोग: - २

  लट् स्‍मे ।३।२।११८। अपरोक्षे च ।३।२।११९। लट् लकारेण सह 'स्‍म' (अव्‍यय) योजनेन भूतकालस्‍यार्थं प्राप्‍यते । यथा- कस्‍मंश्चिद्देशे धर्म्‍मबुद्धि: पापबुद्धिश्‍च द्वे मित्रे प्रतिवसत: स्‍म । (किसी देश में धर्मबुद्धि और पापबुद्धि नामक दो मित्र रहते थे ) । विशेष -  'स्‍म' लट् लकारस्‍यान्‍ते एव भवेदिति आवश्‍यकं नास्ति, इदं वाक्‍ये क्‍वचिदपि भवितुमर्हति ।  यथा- दुनोति निर्गन्‍धतया स्‍म चेत: । त्‍वं स्‍म वेत्‍थ महाराज, यत् स्‍माह न विभीषण: । इति

लट् लकारस्‍य प्रयोग: - ३

  यावत्‍पुरा निपातयोर्लट् ।३।३।४। पुरा (पहले) शब्‍देन सह 'लुड्.' विहाय भूतकालस्‍यार्थे विकल्‍पेन लट् लकारस्‍य प्रयोग: भवति, किन्‍तु 'स्‍म' युक्‍तेन पुराशब्‍देन नैव ।  यथा - वसन्‍तीह पुराच्‍छात्रा: ।  (पहले यहाँ विद्यार्थी रहा करते थे ) । 'यावत्', 'तावत्' योगे अपि भविष्‍यत् कालस्‍यार्थे लट् लकारस्‍य प्रयोग: भवति ।  यथा - यावदहम् आगच्‍छामि तावदपेक्षस्‍व । (जब तक मैं वापस आउं, तुम प्रतीक्षा करो ) । आर्य माधव्‍य, अवलम्‍बस्‍व चित्रफलकं यावदागच्‍छामि । (आर्य माधव्‍य, मेरे आने तक इस चित्रफलक को पकडो ) । निश्‍चयस्‍यार्थे 'यावत्' 'पुरा' च द्वयो: अव्‍ययो: योगे भविष्‍यत् काले अपि लट् लकारस्‍य प्रयोग: भवति ।  यथा - पुरा सप्‍तद्वीपां जयति वसुधाम् अप्रतिरथ: । (वह अनुपम वीर सप्‍तद्वीपा पृथ्‍वी को अवश्‍य ही जीत लेगा ) । यावत् अस्‍य दुरात्‍मन: कुम्‍भीनसीपुत्रस्‍य समुन्‍मूलनाय शत्रुघ्‍नं प्रेषयामि । (मैं इस कुम्‍भीनसी के पुत्र के विनाश के लिये शत्रुघ्‍न को भेजूँगा ) । इति

लट् लकारस्‍य प्रयोग: - ४

  लिप्‍स्‍यमान सिद्धौ च ।३।३।७। एवं कुर्म: चेत् एवं भविष्‍यति इति अर्थे, एवं च अन्‍नादि दत्‍वा स्‍वर्गप्राप्‍ते: कामनाया: कृते विकल्‍पेन लट् लकारस्‍य प्रयोग: भवति ।  यथा - यो अन्‍नं ददाति स: स्‍वर्गं याति (जो अन्‍नदान करेगा वह स्‍वर्ग जायेगा ) । इति

लट् लकारस्‍य प्रयोग: - ५

विभाषा कदा कर्ह्यो: ।३।३।५। 'कदा' 'कर्हि' च शब्‍दयो: योगे भविष्‍यत् अर्थे विकल्‍पेन लट् लकारस्‍य प्रयोग: भवति ।  यथा - कदा कर्हि वा भुड्.ते ? (कब खायेगा) ? लोडर्थलक्षणे च ।३।३।८। भविष्‍यत् इत्‍यस्‍यार्थे लोट् अर्थ ग्रहणे अपि लट् लकारस्‍य प्रयोग: भवति ।  यथा - कृष्‍णश्‍चेद् भुड्.ते त्‍वं गाश्‍चारय । (यदि कृष्‍ण खाना खावें तो तुम गाओं को चराओ) । किं वृत्‍ते लिप्‍सायाम् ।३।३।६। प्रश्‍नसूचक भविष्‍यत् अर्थे विकल्‍पेन लट्लकारस्‍य प्रयोग: भवति ।  यथा - अस्‍मासु कं भोजयति ? (हम में से किसको खिलाओगे) ?   लट् लकारस्‍य प्रयोग: भवद्भि: दृष्‍ट: ।  अग्रे भूतकालस्‍य प्रयोग: पश्‍याम: । इति

भूतकालस्‍य प्रयोग:

भूतकालस्‍य क्रियां प्रकटितुं संस्‍कृते  लड्., लिट्, लुड्.  च लकाराणां प्रयोग: भवति ।   'था', 'किया था', 'हुआ था', 'रहा था' कृते एतेषां प्रयोग: भवति ।  यथा - स: पपाठ (उसने पढा), त्‍वम् अपठ: (तुमने पढा), अहम् अगमम् (मैं गया) । यदि भूतकालस्‍य सूचकवाक्‍ये  'अद्य'  शब्‍दस्‍य प्रयोग: भवति चेत्  लुड्. लकारस्‍य  प्रयोग: भवति ।  यथा - अद्य रामो राजा अभूत् । (आज राम राजा हुए) । भूतकालसूचकवाक्‍ये यदि  'ह्य:'  शब्‍दस्‍य प्रयोग: भवति चेत्  लड्. लकारस्‍य  प्रयोग: भवति ।  यथा - ह्य: वृष्टिरभवत् (कल वर्षा हुई थी) । परोक्षभूतकाले (इन्द्रियअगोचरत्‍वे)  लिट् लकारस्‍य  प्रयोग: भवति, किन्‍तु उत्‍तमपुरुषे लिट् लकारस्‍य प्रयोग: नैव भवति ।  यथा - नारद उवाच  (नारद बोले) । प्रयोग: तु सम्‍यगस्ति किन्‍तु अहं वनं जगाम  (मैं जंगल गया) । प्रयोग: सम्‍यक् नास्ति । अस्‍य कृते तु (अहं वनम् अगच्‍छम्) इत्‍यैवोपयुक्‍त: । इति

लड्. लकारस्‍य प्रयोग:

अनद्यतने लड्. यत् कार्यम् अद्यतनात् पूर्वम् अभवत् तस्‍य बोधार्थं  लड्. लकारस्‍य  प्रयोग: क्रियते ।  यथा - देवदत्‍तो हि एवम् अब्रवीत् ।  (देवदत्‍त ने ऐसा कहा था) । स च एकदा पानीयं पातुं यमुनाकच्‍छम् अगच्‍छत् । (एक दिन वह जल पीने के लिये यमुना नदी के किनारे गया) । आसीत् राजा च उल्‍कामुखो नाम । (उल्‍कामुख नामक एक राजा था) । अपश्‍यद्देवदेवस्‍य शरीरे पाण्‍डवस्‍तदा । (तब अर्जुन ने भगवान के शरीर में देखा) । इति

लड्. लकारस्‍य प्रयोग: - २

  प्रश्‍ने चासन्‍न काले ।३।२।११७। वाक्‍ये लुड्.लकारभिन्‍नासन्‍न भूतकालस्‍य बोधार्थं परोक्षे (इन्द्रियै: अगोचर:)  'लड्.' 'लिट्'  च लकारयो: अपि प्रयोग: भवति ।  यथा - अभाषत् किम् ? बभाषे किम् ? जगाम किम् ? किन्‍तु विप्रकृष्‍ट (य: नितरां पूर्वम् अतीत:) भूतकाले बोधार्थं लड्. लकारस्‍य प्रयोग: नैव भवति ।  तत्र लिट् लकारस्‍यैव प्रयोग: समीचीन: ।  यथा - कंसं जघान किम् ? इति

मास्‍म ।

  मास्‍म  मास्‍म योगे  'लड्.' 'लुड्.' श्‍च प्रयोग: भवति ।  मास्‍म प्रयोगे आगमस्‍य अकारस्‍य लोप: भवति । यथा - मास्‍म करोत् । (नहीं करना चाहिये) ।  मास्‍म भव  (मत होओ) ।  वाक्‍यमध्‍ये स्थितस्‍य  'ह' 'शश्‍वत्'  च कृते  'लड्.' 'लिट्'  लकारयो: प्रयोग: भवति ।  यथा - इति होवाच याज्ञवल्‍क्‍य: ।  (याज्ञवल्‍क्‍य ने ऐसा कहा) ।  कलशं पूर्णमादाय पृष्‍ठतोSनु जगाम ह ।  (पानी से भरे कलश को लेकर वह (मुनि के) पीछे चली गयी) । शश्‍वत् अकरोत् (चकार वा) । इति

लिट् (परोक्ष भूत) लकारस्‍य प्रयोग:

परोक्षभूतकालस्‍य कृते  लिट् लकारस्‍य  प्रयोग: भवति ।  परोक्ष भूत इत्‍युक्‍ते भूतकालस्‍य सा घटना या अस्‍माकम् इन्द्रियाभि: द्रष्‍टुं शक्‍य: नास्ति, अर्थात् यदस्‍माकं सम्‍मुखे नाभवत् ।  यथा - शैलाधिराजतनया न ययौ न तस्‍थौ । (पार्वती न आगे जा सकीं न ठहर ही सकीं) । जहार लज्‍जां भरतस्‍य मातु: । (राम ने भरत की माता की लाज रखी) । छिन्‍नमूल इव पपात ।  (वह कटी हुई जड वाले पेड के समान गिर गया) । इति

लिट् लकार प्रयोग: - 2

अत्‍यन्‍तापह्नवे लिट् वक्‍तव्‍य: । वा. । सत्‍यवाक्‍यस्‍य अपह्नवे (निमीलनेच्‍छायाम्) लिट्  लकारस्‍य प्रयोग: भवति ।  यथा - अपि कलिंगेष्‍ववस: ? नाहं कलिंगान् जगाम । (क्‍या तुम कलिंग में रहे ?  नहीं मैं कभी कलिंग देश में नहीं गया) । अरे ! किमिति मे पुस्‍तकं मलिनीकृतवान् असि ? नाहं ददर्श ते पुस्‍तकम् I (अरे ! तूने मेरी पुस्‍तक क्‍यों गन्‍दी कर दी ? नहीं, मैंने नहीं की, मैंने तुम्‍हारी पुस्‍तक देखी तक नहीं है) । उत्‍तमपुरुषे लिट् लकार: नैव  भवति, किन्‍तु  स्‍वप्‍नावस्‍थायां उन्‍मत्‍तावस्‍थायां  च उत्‍तमपुरुषे अपि लिट् लकारस्‍य प्रयोग: भवति । यथा - अहम् उन्‍मत्‍त: सन् वनं विचचार । (मैंने पागलपन की दशा में जंगल में भ्रमण किया) । अप्‍यहं निद्रित: सन् विललाप ? (क्‍या मैं निद्रित अवस्‍था में विलाप कर रहा था ?) । इति

लुड्. लकारस्‍य प्रयोग: ।

(क) -   आसन्‍नभूतकाले   (या क्रिया अद्यैव अभवत् तस्‍य कृते)   लुड्. लकारस्‍य   प्रयोग: भवति ।  यथा -  इदमच्‍छोदं सर: स्‍नातुम् अभ्‍यागमम् । (मैं इस अच्‍छोद सरोवर में स्‍नान करने के लिये आई) । सुरथो नाम राजाभूत् समस्‍ते क्षितिमण्‍डले । (समस्‍त पृथ्‍वी में सुरथ नामक एक राजा हुआ) । (ख) -  माड्. मास्‍म च शब्‍दाभ्‍यां  योगे त्रिषु अपि कालेषु लुड्. लकारस्‍य प्रयोग: भवति ।  यथा - क्‍लैव्‍यं मास्‍म गम: पार्थ । (हे अर्जुन निराश मत हो) । मास्‍म प्रतीपं गम: । (विपरीत मत हो जाना) । प्रिये, मा भैषी: । (प्रिये, डरो मत) । इति