धातुगणा:

 संस्‍कृतभाषा: धात्‍वाधारिता भाषा ।  अस्‍यां भाषायां धातुं विना पदमपि गन्‍तुं शक्‍यं नास्ति ।  अत्र कदाचित् द्विसहस्राधिकमपि धातुसंख्‍या । धातुमधिकृत्‍यैव धातुरूपम् इत्‍युक्‍ते क्रियारूपं चलति ।  तेन माध्‍यमेनैव वाक्‍यप्रयोग: भवति ।

   प्रायशो सर्वा: धातव: आहत्‍य दश गणेषु विभक्‍ता: सन्ति ।  एतेषां दशगणानां नामानि तस्‍यान्‍तर्गतस्‍य प्रथमधातो: नामोपरि आधारितमस्ति ।  एते गणा: अधोक्‍ता: सन्ति ।
 भ्‍वाद्यदादी जुहोत्‍यादिदिवादि: स्‍वादिरेव च ।
तुदादिश्‍च रुधादिश्‍च तनक्र्यादिचुरादय: ।। 

  1. भ्‍वादिगण 
  2. अदादिगण 
  3. जुहोत्‍यादिगण
  4. दिवादिगण 
  5. स्‍वादिगण
  6. तुदादिगण
  7. रुधादिगण
  8. तनादिगण
  9. क्र्यादिगण
  10. चुरादिगण
एतेषाम् अन्‍तर्गते आगतानां धातवा:, तेषां धातुरूपं च अग्रे शनै: शनै: प्रकाशयिष्‍याम: ।

इति

Comments

Popular posts from this blog

लिड्. लकार प्रयोग: - 2

क्रीड् (खेलना) धातु: - परस्‍मैपदी

लिड्. लकार प्रयोग: - 4