धातु: त्रेधा भवति । 1- सकर्मकधातु: 2- अकर्मकधातु: 3- द्विकर्मकधातु: च 1- सकर्मकधातु: - येषां क्रियाणां फलं व्यापाराश्च भिन्न-भिन्नाश्रयेषु भवति ते धातव: सकर्मक इति कथ्यन्ते । ( फलव्यधिकरणव्यापारवाचकत्वं सकर्मकत्वम् ) । साकांक्षितक्रिया सकर्मक भवति । यथा पठति, खादति, पिबति इत्यादि । 2- अकर्मकधातु: - यस्य फलं व्यापाराश्च एकस्मिनाश्रये एव तिष्ठति तदकर्मकमिति उच्यते । ( फलसमानाधिकरणव्यापारवाचकत्वम् अकर्मकत्वम् ) । सकर्मकधातु: यदि स्व अर्थं परित्यज्य अपरस्य अर्थस्य अवबोधं कारयेत् चेत् सोपि अकर्मक भवति । यथा - नदी वहति । यदि कर्मस्य धात्वर्थे एव बोध: भवति चेत् तत्रापि क्रिया अकर्मक एव भवति । यथा - गोपाल: नृत्यति । यत्र कर्म प्रसिद्धं भवति तत्रापि क्रिया अकर्मक भवति । यथा - मेघ: वर्षति । कर्मण: अविवक्षायामपि सकर्मकक्रिया अकर्मक भवति । हितात् न य: संश्रृणुते स किं प्रभु: धातोरर्थान्तरे वृत्ते: धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षात: कर्मणो कर्मका क्रिया ।। अधोलिखितार्थक्रिया: अकर्मक भवन्ति । लज्जासत्तास्थितिजाग...
Comments
Post a Comment