Posts

लृट् लुट् च लकारयो: प्रयोग: ।

अनद्यतने लुट् ।3।3।15। लृट् शेषे च ।3।3।13। भविष्‍यकालस्‍य वाक्‍यानां प्रयोग: संस्‍कृते लृट् लुट् च लकारयो:  भवति । यद्यपि एतौ द्वौ अपि लकारौ भविष्‍यकालबोधकौ तथापि तयो: भेद: विद्यते ।  दूरवर्ती भविष्‍यस्‍य बोधार्थं लुट् लकार: ,  आसन्‍न उत समीपवर्ती भविष्‍यत् कृते तु लृट् लकार स्‍य प्रयोग: भवति ।  यथा - 1 (क) - अयोध्‍यां श्‍व: प्रयातासि कपे भरतपालिताम् । (हे वानर, तू कल भरतपालित अयोध्‍या में जायेगा) । (ख) - पंचषैरहोभि: वयमेव तत्रागन्‍तार: । (पांच छ: दिनों में हम ही वहाँ जायेंगे) । 2 (क) - न जाने क्रुद्ध: स्‍वामी किं विधास्‍यति । (न जाने स्‍वामी क्रोध में क्‍या कर डालेंगे) । (ख) - प्रत्‍ययं दास्‍यते सीता तामनुज्ञातुमर्हसि । (सीता अपने सतीत्‍व का प्रमाण देगी, उसे आज्ञा देना आपका काम है) । इति

लृट्, लुट् च लकारयो: प्रयोग: - 2

आशंसायां भूतवच्‍च ।3।3।132। आशंसा (ऐसा होने पर ऐसा हो जायेगा)  अर्थे लृट् लकारस्‍य प्रयोग: भवति ।  यथा - देवश्‍चेद् वर्षिष्‍यति धान्‍यं वप्‍स्‍याम: । (यदि वर्षा होगी तो धान बोयेंगे) । विशेष -  अस्मिन् अर्थे एव लुड्. लट् लकारयोरपि प्रयोग: कृयते । यथा- (देवश्‍चेद् अवर्षीत् वर्षति वा) । इति

लृट्, लुट् च लकारयो: प्रयोग: - 3

क्षिप्रवचने लृट् ।3।3।133। वाक्‍ये  क्षिप्र (शीघ्र)  शब्‍द: प्रयुक्‍त: सन् लृट् लकारस्‍य प्रयोग: भवति ।  यथा - वृष्टिश्‍चेत् शीघ्रं (त्‍वरितं, आशु वा) आयास्‍यति क्षिप्रं वप्‍स्‍याम: । यदि शीघ्र वर्षा होगी तो हम अनाज बोयेंगे । इति  

लृट्, लुट् च लकारयो: प्रयोग: - 4

अभिज्ञावचने लृट् ।3।2।112। वाक्‍ये  अभिज्ञावचनं (स्‍मरणार्थबोधकशब्‍दा:)  भवेत् सन्  लड्. लकारस्‍य स्‍थाने लृट् लकारस्‍य  प्रयोग: भवति ।  यथा - स्‍म‍रसि कृष्‍ण गोकुले वत्‍स्‍याम: । (हे कृष्‍ण तुम्‍हें याद है, हम गोकुल में रहते थे) । 'आश्‍चर्य'  अर्थे लृट् लकार: भवति ।  यथा - आश्‍चर्यम् अन्‍धो नाम कृष्‍णं द्रक्ष्‍यति । (आश्‍चर्य है कि अन्‍धा कृष्‍ण को देखेगा) । 'निश्‍चयार्थक' 'समर्थबोधक'  च शब्‍दयो: कृते  अलं शब्‍दस्‍य  प्रयोगे  लृट् लकार स्‍य प्रयोग: भवति । यथा - अलं कृष्‍णो हस्तिनं हनिष्‍यति ।  इति

लृड्.लकार प्रयोग:

  लिड्. निमित्‍ते लिड्. क्रियातिपत्‍तौ ।3।3।139। (यदि ऐसा होता तो ऐसा हो जाता)  इति एवंविधिवाक्‍यानां प्रयोगे  भविष्‍यत् अर्थे धातुना लृड्. लकार:  भवति ।  यथा - सुवृष्टिश्‍चेदभविष्‍यत् सुभिक्षभविष्‍यत् । (यदि अच्‍छी वर्षा होती तो अच्‍छा अन्‍न होता) । इति

लृड्. लकारस्‍य प्रयोग: - 2

  यत्र  क्रियातिपत्ति: (क्रियाया: अनिष्पत्ति: असिद्धि: वा)  अर्थे प्रतीति: भवति अथवा  हेतो: वाक्‍यार्थस्‍य वा मिथ: (हेतु:/वाक्‍यार्थ: व मिथ्‍या नास्ति इति) इति न प्रतीयते , तत्रापि लृड्. लकारस्‍य प्रयोग: भवति ।   लृड्. भूत् उत भविष्‍यत् अर्थे प्रयुज्‍ज्‍यते ।    चन्‍द्रव्‍याकरणानुसारी विद्वान्‍स: लृड्. लकारस्‍य भविष्‍यत्काले प्रयोग: नैव मन्‍यन्‍ते ।  ते भविष्‍यत् काले लृड्. इत्‍यस्‍यास्‍थाने लृट् लकारस्‍यैव प्रयोग: कुर्वन्ति ।    (भविष्‍यति क्रियातिपतने भविष्‍यन्‍त्‍येवेति चान्‍द्रा:)  यथा - यदि गोपाल: सन्‍तरणकौशलमज्ञास्‍यत् तर्हि जलात् नामेष्‍यत् । (यदि गोपाल तैरना जानता तो उसे जल से डर न लगता) । निशाश्‍चेत् तमस्विन्‍यो नाभविष्‍यन् को नाम चन्‍द्रमसो गुणं व्‍यज्ञास्‍यत् । (यदि रातें अन्‍धेरी न होतीं तो चन्‍द्रमा का गुण कौन जानता) । यद्यहम् अन्‍धो नाभविष्‍यम् तर्हि पृथिव्‍या: सर्वेषां गुणानां सौन्‍दर्यमद्रक्ष्‍यम् । (यदि मैं अन्‍धा न होता तो मैं पृथ्‍वी की समस्‍त वस्‍तुओं का सौन्‍दर्य देखता) । यदि राजा दुष्‍टेषु दण्‍डं नाधारयिष्...

लोट् लकारस्‍य प्रयोग:

विधिनिमन्‍त्रणामन्‍त्रणाधीष्‍टसंप्रश्‍नप्रार्थनेषु लिड्. ।3।3।161। लोट् च ।3।3।162। आशिषि लिड्. लोटौ ।3।3।273। (विध्‍यादिषु अर्थेषु धातोर्लोट् स्‍यात् । सि. कौ.) अनुमति, निमन्‍त्रण, आमन्‍त्रण, अनुरोध,‍ जिज्ञासा, सामर्थ्‍य  च अर्थे लोट् लकारस्‍य प्रयोग: भवति ।  यथा - अनुमति अर्थे -  अद्य भवान् अत्र आगच्‍छतु । (आज आप यहाँ आइये) । निमन्‍त्रण अर्थे -  अद्य भवान् इह भुड्.ताम् । (आज आप यहाँ भोजन कीजिये) । आमन्‍त्रण अर्थे -  वने स्मिन् यथेच्‍छं वस । (इस वन में इच्‍छानुसार रह सकते हो) ।  मास्‍म अस्‍या: विपद: रक्षतु भवान् ।  (आप इस विपत्ति से मेरी रक्षा कीजिये) । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ।  (हे महाबाहो, इच्‍छारूपी शत्रु का नाश कीजिये) ।  त्‍यज दुर्जनसंसर्गं भज साधुसमागमम् ।  (दुष्‍टों की संगति छोडिये, सज्‍जनों का साथ कीजिये) ।  भद्र, अनुजानीहि, पिंगलकसमीपं गच्‍छामि । (मित्र, आज्ञा दीजिये, मैं पिंगलक के पास जाता हूँ) । इति