Posts

धातुरूपप्रकरणम्

  मित्राणि अद्य आरभ्‍य संस्‍कृ‍तजगति धातुरूपप्रकरणं प्रकाशयिष्‍यते । भवन्‍त: येषां धातूनां धातुरूपं परिचयं वा प्राप्‍तुमिच्‍छन्ति कृपया अत्र टिप्‍पणीमंजूषायाम् अथवा अस्‍मान् ईमेल माध्‍यमेन लेखितुं शक्‍नुवन्ति । वयं भवतां समस्‍यासमाधानं कर्तुं कृतसंकल्‍पा: स्‍म: । पुनश्‍च ये बान्‍धवा: धातुरूपाणां विशिष्टज्ञानम् अवधारयन्ति एवं च जनेभ्‍य: स्‍वज्ञानलाभं प्रददातुमिच्‍छन्ति ते अपि कृपया स्‍वलेखान् लिखित्‍वा अस्‍मान् प्रेषितुं शक्‍नुवन्ति । अस्‍माकं ईसंकेत: gyandarpanstudy@gmail.com अस्ति । अत्र प्रेषिता: भवन्‍त: लेखा:  प्रकाशयिष्‍यन्‍ते ।  भवतां हार्द: धन्‍यवाद:

धातु: किम् इति ?

  धा तुरूपं किमस्ति इति ज्ञातुं पूर्वम् का धातु: इति एतत् ज्ञायेत् । धातुविषये महर्षिपाणिनि: अष्‍टाध्‍यायीग्रन्‍थे वदति -  भूवादयोधातव:  ।  भू, एध आदीनां (क्रियावाचीवर्णसमुदायानां) धातुसंज्ञा भवति ।  धातुभि: सह तिड. आदिप्रत्‍यया: युञ्ज्यन्‍ते ।  एते तिड. प्रत्यया: अधोक्‍ता: सन्ति । परस्‍मैपदिधातूनां कृते -  एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: तिप्, तस्, झि, मध्‍यमपुरुष: सिप् थस् थ उत्‍तमपुरुष: मिप् वस् मस् आत्‍मनेपदिधातूनां कृते -  एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: त, अताम्, झ मध्‍यमपुरुष: थास्, आथाम्, ध्‍वम् उत्‍तमपुरुष: इट्, वहि, महिड्. एतै: सहयोगै: सर्वेषु कालेषु (लकारेषु) सर्वेषु पुरुषेसु, सर्वेषु वचनेषु च धातुरूपाणि निर्माप्‍यते ।

धातूनां प्रकार: ।

  धातु: त्रेधा भवति ।  1- सकर्मकधातु: 2- अकर्मकधातु: 3- द्विकर्मकधातु: च 1- सकर्मकधातु: -  येषां क्रियाणां फलं व्‍यापाराश्‍च भिन्‍न-भिन्‍नाश्रयेषु भवति ते धातव: सकर्मक इति कथ्‍यन्‍ते । ( फलव्‍यधिकरणव्‍यापारवाचकत्‍वं सकर्मकत्‍वम् ) ।  साकांक्षितक्रिया सकर्मक भवति । यथा पठति, खादति, पिबति इत्‍यादि । 2- अकर्मकधातु: -  यस्‍य फलं व्‍यापाराश्‍च एकस्मिनाश्रये एव तिष्‍ठति तदकर्मकमिति उच्‍यते ।  ( फलसमानाधिकरणव्‍यापारवाचकत्‍वम् अकर्मकत्‍वम् ) । सकर्मकधातु: यदि स्‍व अर्थं परित्‍यज्‍य अपरस्‍य अर्थस्‍य अवबोधं कारयेत् चेत् सोपि अकर्मक भवति । यथा - नदी व‍हति । यदि कर्मस्‍य धात्‍वर्थे एव बोध: भवति चेत् तत्रापि क्रिया अकर्मक एव भवति ।  यथा - गोपाल: नृत्‍यति । यत्र कर्म प्रसिद्धं भवति तत्रापि क्रिया अकर्मक भवति । यथा - मेघ: वर्षति । कर्मण: अविवक्षायामपि सकर्मकक्रिया अकर्मक भवति ।  हितात् न य: संश्रृणुते स किं प्रभु: धातोरर्थान्‍तरे वृत्ते: धात्‍वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षात: कर्मणो कर्मका क्रिया ।। अधोलिखितार्थक्रिया: अकर्मक भवन्ति । लज्‍जासत्‍तास्थितिजागरणं वृद्धिक्षयभयजीवनमरणम् शयनक्रीडारुचि

धातुरूपम्

  धातुविषये विज्ञाय सम्‍प्रति अस्‍माकं जिज्ञासा भवति यत् धातुरूपं कथं प्रचलति, कतिविधं च भवति । पूर्वे लेखे वयं धातो: कर्मप्रवृत्तिं ज्ञातवन्‍त: । काचन् धातु: सकर्मकम् अकर्मकम् अथवा उभयविधं भवितुमर्हति । सम्‍प्रति धातो: अपरा प्रवृत्ति: इत्‍युक्‍ते सा धातु: कीदृशं रूपं दधाति इति जानिम: ।    धातुप्रयोग: त्रेधा भवति पुन: । परस्‍मैपदी  -  यदा क्रियाया: फलं साक्षात् कर्तारं प्रति न गच्‍छेत् तत्र परस्‍मैपदी धातु: भवति। आत्‍मनेपदी -  यदा क्रियाया: फलं साक्षात् कर्ता प्राप्‍येत् तत्र आत्‍मनेपदी धातु: भवति । उभयपदी -  यदा क्रियाया: फलं कर्तारमपि अन्‍यै: सहैव मिलेत् तत्र उभयपदी धातुप्रयोग: भवति । एतेषां धातुरूपाणां विषये अधिकं अग्रे पठिष्‍याम: ।

लकारपरिचय:

  धातुरूपाणि दशलकारेषु विभाजितानि सन्ति, अथवा धातो: सर्वेषु वचनेषु, सर्वेषु पुरुषेसु सर्वेषु कालेषु विभाजनम् आहत्‍य दशलकारेषु एव कृतमस्ति ।  एते लकारा: लादिवर्णात् प्रारभ्‍यन्‍ते अत: लकारा: इति उच्‍यन्‍ते ।  दशलकारा: सन्ति अधोक्‍ता: । लट् लकार -  वर्तमानकाले । लिट् लकार -  अनद्यतन-परोक्षभूतकाले । लुट् लकार -  अनद्यतनभविष्‍यतकाले । लृट् लकार -  अद्यतनभविष्‍यतकाले । लेट् लकार -  वेदप्रयोगे । लोट् लकार -  आज्ञाप्रयोगे । लड्. लकार -  अनद्यतनभूतकाले । लिड्. लकार -  विधिनिषेधादिप्रयोग, शुभकामनाशीर्वादवचने । लुड्. लकार -  अद्यतनभूतकाले । लृड्. लकार -  हेतुहेतुमद्भावप्रयोगे ।  लट् वर्तमाने लेट् वेदे भूते लुड्. लड्. लिटस्‍तथा । विध्‍याशिषोर्लिड्. लोटौ च लुट् लृट् लृड्. च भविष्‍यति ।। इति

सेटानिटधातव: ।

  सेट् -  यासु क्रियासु 'इट्' प्रयुज्‍ज्‍यते ता: क्रिया: 'सेट्' इति उच्‍यन्‍ते ।  यथा - पठिष्‍यति । अनिट् -  यासु क्रियासु 'इट्' नैव प्रयुज्‍ज्‍यते ता: क्रिया: 'अनिट्' इति उच्‍यन्‍ते ।  एतासु धातुषु ऊदन्त, ऋदन्‍त, यु, रु, क्ष्‍णु, शीड्., स्‍नु, नु, क्षु, श्वि, डीड्., श्री, वृड्., वृञ् धातून् परित्‍यज्‍य सर्वा: अजन्‍तधातव: परिगण्‍यन्‍ते ।

धातुगणा:

  संस्‍कृतभाषा: धात्‍वाधारिता भाषा ।  अस्‍यां भाषायां धातुं विना पदमपि गन्‍तुं शक्‍यं नास्ति ।  अत्र कदाचित् द्विसहस्राधिकमपि धातुसंख्‍या । धातुमधिकृत्‍यैव धातुरूपम् इत्‍युक्‍ते क्रियारूपं चलति ।  तेन माध्‍यमेनैव वाक्‍यप्रयोग: भवति ।    प्रायशो सर्वा: धातव: आहत्‍य दश गणेषु विभक्‍ता: सन्ति ।  एतेषां दशगणानां नामानि तस्‍यान्‍तर्गतस्‍य प्रथमधातो: नामोपरि आधारितमस्ति ।  एते गणा: अधोक्‍ता: सन्ति ।   भ्‍वाद्यदादी जुहोत्‍यादिदिवादि: स्‍वादिरेव च । तुदादिश्‍च रुधादिश्‍च तनक्र्यादिचुरादय: ।।  भ्‍वादिगण  अदादिगण  जुहोत्‍यादिगण दिवादिगण  स्‍वादिगण तुदादिगण रुधादिगण तनादिगण क्र्यादिगण चुरादिगण एतेषाम् अन्‍तर्गते आगतानां धातवा:, तेषां धातुरूपं च अग्रे शनै: शनै: प्रकाशयिष्‍याम: । इति