आशीर्लिंड्. लकार प्रयोग: । Get link Facebook X Pinterest Email Other Apps December 17, 2020 आशीर्वादार्थे आशीर्लिंड्. लकारस्य प्रयोग: क्रियते । यथा -सम्राट् सुचिरं जीव्यात् । त्वं दीर्घायु: भूया: । वीरप्रसविनी भूया: । विधेयासुर्देवा: परमरमणीयां परिणतिम् । इति Get link Facebook X Pinterest Email Other Apps Comments
धातुरूपप्रकरणम् December 17, 2020 मित्राणि अद्य आरभ्य संस्कृतजगति धातुरूपप्रकरणं प्रकाशयिष्यते । भवन्त: येषां धातूनां धातुरूपं परिचयं वा प्राप्तुमिच्छन्ति कृपया अत्र टिप्पणीमंजूषायाम् अथवा अस्मान् ईमेल माध्यमेन लेखितुं शक्नुवन्ति । वयं भवतां समस्यासमाधानं कर्तुं कृतसंकल्पा: स्म: । पुनश्च ये बान्धवा: धातुरूपाणां विशिष्टज्ञानम् अवधारयन्ति एवं च जनेभ्य: स्वज्ञानलाभं प्रददातुमिच्छन्ति ते अपि कृपया स्वलेखान् लिखित्वा अस्मान् प्रेषितुं शक्नुवन्ति । अस्माकं ईसंकेत: gyandarpanstudy@gmail.com अस्ति । अत्र प्रेषिता: भवन्त: लेखा: प्रकाशयिष्यन्ते । भवतां हार्द: धन्यवाद: Read more
धातूनां प्रकार: । December 17, 2020 धातु: त्रेधा भवति । 1- सकर्मकधातु: 2- अकर्मकधातु: 3- द्विकर्मकधातु: च 1- सकर्मकधातु: - येषां क्रियाणां फलं व्यापाराश्च भिन्न-भिन्नाश्रयेषु भवति ते धातव: सकर्मक इति कथ्यन्ते । ( फलव्यधिकरणव्यापारवाचकत्वं सकर्मकत्वम् ) । साकांक्षितक्रिया सकर्मक भवति । यथा पठति, खादति, पिबति इत्यादि । 2- अकर्मकधातु: - यस्य फलं व्यापाराश्च एकस्मिनाश्रये एव तिष्ठति तदकर्मकमिति उच्यते । ( फलसमानाधिकरणव्यापारवाचकत्वम् अकर्मकत्वम् ) । सकर्मकधातु: यदि स्व अर्थं परित्यज्य अपरस्य अर्थस्य अवबोधं कारयेत् चेत् सोपि अकर्मक भवति । यथा - नदी वहति । यदि कर्मस्य धात्वर्थे एव बोध: भवति चेत् तत्रापि क्रिया अकर्मक एव भवति । यथा - गोपाल: नृत्यति । यत्र कर्म प्रसिद्धं भवति तत्रापि क्रिया अकर्मक भवति । यथा - मेघ: वर्षति । कर्मण: अविवक्षायामपि सकर्मकक्रिया अकर्मक भवति । हितात् न य: संश्रृणुते स किं प्रभु: धातोरर्थान्तरे वृत्ते: धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षात: कर्मणो कर्मका क्रिया ।। अधोलिखितार्थक्रिया: अकर्मक भवन्ति । लज्जासत्तास्थितिजाग... Read more
धातुगणा: December 17, 2020 संस्कृतभाषा: धात्वाधारिता भाषा । अस्यां भाषायां धातुं विना पदमपि गन्तुं शक्यं नास्ति । अत्र कदाचित् द्विसहस्राधिकमपि धातुसंख्या । धातुमधिकृत्यैव धातुरूपम् इत्युक्ते क्रियारूपं चलति । तेन माध्यमेनैव वाक्यप्रयोग: भवति । प्रायशो सर्वा: धातव: आहत्य दश गणेषु विभक्ता: सन्ति । एतेषां दशगणानां नामानि तस्यान्तर्गतस्य प्रथमधातो: नामोपरि आधारितमस्ति । एते गणा: अधोक्ता: सन्ति । भ्वाद्यदादी जुहोत्यादिदिवादि: स्वादिरेव च । तुदादिश्च रुधादिश्च तनक्र्यादिचुरादय: ।। भ्वादिगण अदादिगण जुहोत्यादिगण दिवादिगण स्वादिगण तुदादिगण रुधादिगण तनादिगण क्र्यादिगण चुरादिगण एतेषाम् अन्तर्गते आगतानां धातवा:, तेषां धातुरूपं च अग्रे शनै: शनै: प्रकाशयिष्याम: । इति Read more
Comments
Post a Comment